ऋग्वेद - मण्डल 8/ सूक्त 62/ मन्त्र 12
स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम॒ नानृ॑तम् । म॒हाँ असु॑न्वतो व॒धो भूरि॒ ज्योतीं॑षि सुन्व॒तो भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
स्वर सहित पद पाठस॒त्यम् । इर् । वै । ऊँ॒ इति॑ । तम् । व॒यम् । इन्द्र॑म् । स्त॒वा॒म॒ । न । अनृ॑तम् । म॒हान् । असु॑न्वतः । व॒धः । भूरि॑ । ज्योतीं॑षि । सु॒न्व॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥
स्वर रहित मन्त्र
सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम नानृतम् । महाँ असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातय: ॥
स्वर रहित पद पाठसत्यम् । इर् । वै । ऊँ इति । तम् । वयम् । इन्द्रम् । स्तवाम । न । अनृतम् । महान् । असुन्वतः । वधः । भूरि । ज्योतींषि । सुन्वतः । भद्राः । इन्द्रस्य । रातयः ॥ ८.६२.१२
ऋग्वेद - मण्डल » 8; सूक्त » 62; मन्त्र » 12
अष्टक » 6; अध्याय » 4; वर्ग » 41; मन्त्र » 6
अष्टक » 6; अध्याय » 4; वर्ग » 41; मन्त्र » 6
विषयः - मानवकर्त्तव्यतामीश्वरन्यायञ्चानया दर्शयति ।
पदार्थः -
वयं सर्वे मनुष्या मूर्खा विद्वांसो वा । स्त्रियः पुरुषा वा । तमिन्द्रं वै=निश्चयेन । उ=निश्चयेन=पुनः पुनर्निश्चयं विधाय । सत्यमित्=सत्यमेव मत्वा । स्तवाम । न+अनृतम्=अनृतमसत्यं मत्वा न स्तवाम । यतः । असुन्वतः=अशुभकर्मवतः पुरुषस्य महान् वधो जायते । सुन्वतः=शुभकर्मवतश्च । भूरि=भूरीणि बहूनि ज्योतींषि प्राप्यन्ते । यत इन्द्रस्य रातयो दानानि भद्राः सति ॥१२ ॥