ऋग्वेद - मण्डल 8/ सूक्त 78/ मन्त्र 5
नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे । विश्वं॑ शृणोति॒ पश्य॑ति ॥
स्वर सहित पद पाठनकी॑म् । इन्द्रः॑ । निऽक॑र्तवे । न । श॒क्रः । परि॑ऽशक्तवे । विश्व॑म् । शृ॒णो॒ति॒ । पश्य॑ति ॥
स्वर रहित मन्त्र
नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे । विश्वं शृणोति पश्यति ॥
स्वर रहित पद पाठनकीम् । इन्द्रः । निऽकर्तवे । न । शक्रः । परिऽशक्तवे । विश्वम् । शृणोति । पश्यति ॥ ८.७८.५
ऋग्वेद - मण्डल » 8; सूक्त » 78; मन्त्र » 5
अष्टक » 6; अध्याय » 5; वर्ग » 31; मन्त्र » 5
अष्टक » 6; अध्याय » 5; वर्ग » 31; मन्त्र » 5
विषयः - N/A
पदार्थः -
इन्द्रः=सर्वद्रष्टा परमेश्वरः । निकर्तवे=निकर्तुं=तिरस्कर्तुम् । नकीं=नैव । शक्यः । यतः । स शक्रः=सर्वशक्तिमानस्ति अतः स परिशक्तवे=परिभवितुं न शक्यः । स विश्वं सर्वं शृणोति । पश्यति च ॥५ ॥