Loading...
ऋग्वेद मण्डल - 2 के सूक्त 18 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 18/ मन्त्र 1
    ऋषिः - गृत्समदः शौनकः देवता - इन्द्र: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    प्रा॒ता रथो॒ नवो॑ योजि॒ सस्नि॒श्चतु॑र्युगस्त्रिक॒शः स॒प्तर॑श्मिः। दशा॑रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि॑र्म॒तिभी॒ रंह्यो॑ भूत्॥

    स्वर सहित पद पाठ

    प्रा॒तरिति॑ । रथः॑ । नवः॑ । यो॒जि॒ । सस्निः॑ । चतुः॑ऽयुगः । त्रिऽक॒शः । स॒प्तऽर॑श्मिः । दश॑ऽअरित्रः । म॒नु॒ष्यः॑ । स्वः॒ऽसाः । सः । इ॒ष्टिऽभिः॑ । म॒तिऽभिः॑ । रंह्यः॑ । भू॒त् ॥


    स्वर रहित मन्त्र

    प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः। दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत्॥

    स्वर रहित पद पाठ

    प्रातरिति। रथः। नवः। योजि। सस्निः। चतुःऽयुगः। त्रिऽकशः। सप्तऽरश्मिः। दशऽअरित्रः। मनुष्यः। स्वःऽसाः। सः। इष्टिऽभिः। मतिऽभिः। रंह्यः। भूत्॥

    ऋग्वेद - मण्डल » 2; सूक्त » 18; मन्त्र » 1
    अष्टक » 2; अध्याय » 6; वर्ग » 21; मन्त्र » 1

    Translation [अन्वय - स्वामी दयानन्द] - The sun has ten spokes inserted in the axle. It is jointed at four points with a three-type resources for its movements and has got seven-types of rays. It is always new and fresh like a chariot or conveyance. It brings happiness. O learned technologists! those wise person who associate themselves with that sun-chariot at the dawn, they acquire genius and wisdom to run it.

    Commentator's Notes [पदार्थ - स्वामी दयानन्द] -
    N/A

    Purport [भावार्थ - स्वामी दयानन्द] - The person who travel in the aforesaid transport, their travels are always eventless.

    Foot Notes - (प्रातः) प्रभाते 1=2n the dawn. (रथ:) गमनसाधनं यानम् = Means of transport and conveyance. (योजि) अयोजि = Is jointed. (सस्निः) शेते यस्मिन् स: = Inserted in the axle. (चतुर्युगः) यश्चतुर्षु युज्यते सः । = One which is divided into four YUGAS (specified periods) (त्निकश:) त्निधा कशा गमनानि गमनसाधनानि वा यस्मिन् = Three types of movements and transport. (सप्तरश्मिः) सप्तविधा रश्मयः किरणा यस्य सः । = Seven types of rays. (दशा रित्नः ) दश अरित्राणि स्तम्भन् साधनानि यस्मिन् = A group of ten spokes. (मनुष्य:) मननशील:।= Intelligent. (स्वर्षा:) स्वः सुखं सुनोति येन सः । = Creators of happiness. (इष्टिभिः) सङ्गताभिः = Accompanying. (रंह्य:) गमयितुं योग्यः = Worthy of moving.

    इस भाष्य को एडिट करें
    Top