ऋग्वेद - मण्डल 10/ सूक्त 159/ मन्त्र 2
ऋषिः - शची पौलोमी
देवता - शची पौलोमी
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी । ममेदनु॒ क्रतुं॒ पति॑: सेहा॒नाया॑ उ॒पाच॑रेत् ॥
स्वर सहित पद पाठअ॒हम् । के॒तुः । अ॒हम् । मू॒र्धा । अ॒हम् । उ॒ग्रा । वि॒ऽवाच॑नी । मम॑ । इत् । अनु॑ । क्रतु॑म् । पतिः॑ । से॒हा॒नायाः॑ । उ॒प॒ऽआच॑रेत् ॥
स्वर रहित मन्त्र
अहं केतुरहं मूर्धाहमुग्रा विवाचनी । ममेदनु क्रतुं पति: सेहानाया उपाचरेत् ॥
स्वर रहित पद पाठअहम् । केतुः । अहम् । मूर्धा । अहम् । उग्रा । विऽवाचनी । मम । इत् । अनु । क्रतुम् । पतिः । सेहानायाः । उपऽआचरेत् ॥ १०.१५९.२
ऋग्वेद - मण्डल » 10; सूक्त » 159; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 17; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 17; मन्त्र » 2
Meaning -
I am my own refulgence, I am the one on top, I am the passion and the fire. I speak and I must have the response. I am the challenger, my master would surely know my acts and intentions positively and would respond favourably.