ऋग्वेद - मण्डल 10/ सूक्त 81/ मन्त्र 3
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एक॑: ॥
स्वर सहित पद पाठवि॒श्वतः॑ऽचक्षुः । उ॒त । वि॒श्वतः॑ऽमुखः । वि॒श्वतः॑ऽबाहुः । उ॒त । वि॒श्वतः॑ऽपात् । सम् । बा॒हुऽभ्या॑म् । धम॑ति । सम् । पत॑त्रैः । द्यावा॒भूमी॒ इति॑ । ज॒नय॑न् । दे॒वः । एकः॑ ॥
स्वर रहित मन्त्र
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एक: ॥
स्वर रहित पद पाठविश्वतःऽचक्षुः । उत । विश्वतःऽमुखः । विश्वतःऽबाहुः । उत । विश्वतःऽपात् । सम् । बाहुऽभ्याम् । धमति । सम् । पतत्रैः । द्यावाभूमी इति । जनयन् । देवः । एकः ॥ १०.८१.३
ऋग्वेद - मण्डल » 10; सूक्त » 81; मन्त्र » 3
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 3
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 3
Meaning -
All watching with cosmic eyes, all speaking with cosmic voice, all protecting with cosmic arms and all sustaining on cosmic foundations, the sole self-refulgent maker creating heaven and earth shapes and controls the universe with his hands, i.e., thought and will with strokes of the natural forces forging things into form.