Loading...
ऋग्वेद मण्डल - 8 के सूक्त 10 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 10/ मन्त्र 2
    ऋषिः - प्रगाथः काण्वः देवता - अश्विनौ छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् । बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥

    स्वर सहित पद पाठ

    यत् । वा॒ । य॒ज्ञम् । मन॑वे । स॒म्ऽमि॒मि॒क्षथुः॑ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् । बृह॒स्पति॑म् । विश्वा॑न् । दे॒वान् । अ॒हम् । हु॒वे॒ । इन्द्रा॒विष्णू॒ इति॑ । अ॒श्विनौ॑ । आ॒शु॒ऽहेष॑सा ॥


    स्वर रहित मन्त्र

    यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् । बृहस्पतिं विश्वान्देवाँ अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥

    स्वर रहित पद पाठ

    यत् । वा । यज्ञम् । मनवे । सम्ऽमिमिक्षथुः । एव । इत् । काण्वस्य । बोधतम् । बृहस्पतिम् । विश्वान् । देवान् । अहम् । हुवे । इन्द्राविष्णू इति । अश्विनौ । आशुऽहेषसा ॥ ८.१०.२

    ऋग्वेद - मण्डल » 8; सूक्त » 10; मन्त्र » 2
    अष्टक » 5; अध्याय » 8; वर्ग » 34; मन्त्र » 2

    Meaning -
    If you sprinkle the yajna of the learned man of thought with ghrta and feed it with havi compounds, know, value and sprinkle the yajna of the children of the sages too the same way. Ashvins, I invoke Brhaspati, lord of the cosmos and cosmic knowledge, all learned men of the world, Indra, ruler of world powers, and Vishnu, lord omnipresent.

    इस भाष्य को एडिट करें
    Top