ऋग्वेद - मण्डल 9/ सूक्त 96/ मन्त्र 3
ऋषिः - प्रतर्दनो दैवोदासिः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
स नो॑ देव दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑स इन्द्र॒पान॑: । कृ॒ण्वन्न॒पो व॒र्षय॒न्द्यामु॒तेमामु॒रोरा नो॑ वरिवस्या पुना॒नः ॥
स्वर सहित पद पाठसः । नः॒ । दे॒व॒ । दे॒वऽता॑ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर॑से । इ॒न्द्र॒ऽपानः॑ । कृ॒ण्वन् । अ॒पः । व॒र्षय॑न् । द्याम् । उ॒त । इ॒माम् । उ॒रोः । आ । नः॒ । व॒रि॒व॒स्य॒ । पु॒ना॒नः ॥
स्वर रहित मन्त्र
स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपान: । कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः ॥
स्वर रहित पद पाठसः । नः । देव । देवऽताते । पवस्व । महे । सोम । प्सरसे । इन्द्रऽपानः । कृण्वन् । अपः । वर्षयन् । द्याम् । उत । इमाम् । उरोः । आ । नः । वरिवस्य । पुनानः ॥ ९.९६.३
ऋग्वेद - मण्डल » 9; सूक्त » 96; मन्त्र » 3
अष्टक » 7; अध्याय » 4; वर्ग » 6; मन्त्र » 3
अष्टक » 7; अध्याय » 4; वर्ग » 6; मन्त्र » 3
Meaning -
O divine Soma, you are the protector of the honour and excellence of humanity, indeed of the very soul of life. Come and bless our great and beautiful social yajna in honour of divinities, initiating, stimulating and exciting noble thoughts and actions, blessing this earth from heaven and the vast spaces with showers of divine favours of grace, purifying us and giving us fulfilment of our highest order of desire and ambition.