Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 48
    ऋषिः - विश्वामित्र ऋषिः देवता - अग्निर्देवता छन्दः - भुरिगार्षी पङ्क्तिः स्वरः - पञ्चमः
    4

    अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र। येना॒न्तरि॑क्षमु॒र्वात॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑॥४८॥

    स्वर सहित पद पाठ

    अग्ने॑। यत्। ते॒। दि॒वि। वर्चः॑। पृ॒थि॒व्याम्। यत्। ओष॑धीषु। अ॒प्स्वित्य॒प्ऽसु। आ। य॒ज॒त्र॒। येन॑। अ॒न्तरि॑क्षम्। उ॒रु। आ॒त॒तन्थेत्या॑ऽत॒तन्थ॑। त्वे॒षः। सः। भा॒नुः। अ॒र्ण॒वः। नृ॒चक्षा॒ इति॑ नृ॒ऽचक्षाः॑ ॥४८ ॥


    स्वर रहित मन्त्र

    अग्ने यत्ते दिवि वर्चः पृथिव्याँ यदोषधीष्वप्स्वा यजत्र । येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥


    स्वर रहित पद पाठ

    अग्ने। यत्। ते। दिवि। वर्चः। पृथिव्याम्। यत्। ओषधीषु। अप्स्वित्यप्ऽसु। आ। यजत्र। येन। अन्तरिक्षम्। उरु। आततन्थेत्याऽततन्थ। त्वेषः। सः। भानुः। अर्णवः। नृचक्षा इति नृऽचक्षाः॥४८॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 48
    Acknowledgment

    अन्वयः - हे यजत्राग्ने! यद्यस्य ते तवाऽग्नेरिव दिवि वर्चः यत् पृथिव्यामोषधीष्वप्सु वर्चोऽस्ति, येन नृचक्षा भानुरर्णवस्त्वेषो येनान्तरिक्षमुर्वाततन्थ, तथा स त्वं तदस्मासु धेहि॥४८॥

    पदार्थः -
    (अग्ने) विद्वन् (यत्) यस्य (ते) तव (दिवि) द्योतनात्मके विद्युदादौ (वर्चः) विज्ञानप्रकाशः (पृथिव्याम्) भूमौ (यत्) (ओषधीषु) यवादिषु (अप्सु) प्राणेषु जलेषु वा (आ) (यजत्र) सङ्गन्तुं योग्य (येन) (अन्तरिक्षम्) आकाशम् (उरु) बहु (आ ततन्थ) समन्तात्तनु हि (त्वेषः) प्रकाशः (सः) (भानुः) प्रभाकरः (अर्णवः) अर्णांसि बहून्युदकानि विद्यन्ते यस्मिन् सः। अर्णसो लोपश्च॥ (अष्टा॰वा॰५.२.१०९) इति मत्वर्थे वः सलोपश्च (नृचक्षाः) नॄन् चक्षते सः॥४८॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यस्मिन् जगति यस्य सृष्टिपदार्थविज्ञानं यादृशं स्यात् तादृशं सद्योऽन्यान् ग्राहयेत्। यदि न ग्राहयेत् तर्हि तन्नष्टं सदन्यैः प्राप्तुमशक्यं स्यात्॥४८॥

    इस भाष्य को एडिट करें
    Top