Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 28
    ऋषिः - प्रस्कण्व ऋषिः देवता - अश्विनौ देवते छन्दः - निचृद्गायत्री स्वरः - पञ्चमः
    4

    उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम्।अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑॥२८॥

    स्वर सहित पद पाठ

    उ॒भा। पि॒ब॒त॒म्। अ॒श्वि॒ना॒। उ॒भा। नः॒। शर्म॑। य॒च्छ॒त॒म् ॥ अ॒वि॒द्रि॒याभिः॑। ऊ॒तिभि॒रित्यू॒तिऽभिः॑ ॥२८ ॥


    स्वर रहित मन्त्र

    उभा पिबतमश्विनोभा नः शर्म यच्छतम् । अविद्रियाभिरूतिभिः ॥


    स्वर रहित पद पाठ

    उभा। पिबतम्। अश्विना। उभा। नः। शर्म। यच्छतम्॥ अविद्रियाभिः। ऊतिभिरित्यूतिऽभिः॥२८॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 28
    Acknowledgment

    अन्वयः - हे अश्विना! उभा युवां यत्रोत्तमं रसं पिबतं तच्छर्मोभा युवामविद्रियाभिरूतिभी रक्षितं गृहं नो यच्छतम्॥२८॥

    पदार्थः -
    (उभा) द्वौ (पिबतम्) (अश्विना) सूर्य्याचन्द्रमसाविवाऽध्यापकोपदेशकौ! (उभा) द्वौ (नः) अस्मभ्यम् (शर्म) श्रेष्ठं शरणं सुखं वा (यच्छतम्) दद्यातम् (अविद्रियाभिः) अच्छिद्राभिः (ऊतिभिः) रक्षणादिभिः॥२८॥

    भावार्थः - अध्यापकोपदेशकैः सदोत्तमगृहरचननिवासोपदेशान् कृत्वा यत्र पूर्णा रक्षा स्यात्, तत्र सर्वे प्रेरणीयाः॥२८॥

    इस भाष्य को एडिट करें
    Top