Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1044
ऋषिः - मेधातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
तं꣢ त्वा꣣ म꣡दा꣢य꣣ घृ꣡ष्व꣢य उ लोककृ꣣त्नु꣡मी꣢महे । त꣢व꣣ प्र꣡श꣢स्तये म꣣हे꣢ ॥१०४४॥
स्वर सहित पद पाठतम् । त्वा꣣ । म꣡दा꣢꣯य । घृ꣡ष्व꣢꣯ये । उ꣣ । लोककृत्नु꣢म् । लो꣣क । कृत्नु꣢म् । ई꣣महे । त꣡व꣢꣯ । प्र꣡श꣢꣯स्तये । प्र । श꣣स्तये । म꣢हे ॥१०४४॥
स्वर रहित मन्त्र
तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे । तव प्रशस्तये महे ॥१०४४॥
स्वर रहित पद पाठ
तम् । त्वा । मदाय । घृष्वये । उ । लोककृत्नुम् । लोक । कृत्नुम् । ईमहे । तव । प्रशस्तये । प्र । शस्तये । महे ॥१०४४॥
सामवेद - मन्त्र संख्या : 1044
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 8
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 8
Acknowledgment
विषयः - अथोपासकः परमात्मानमाह।
पदार्थः -
हे पवमान सोम पवित्रकर्तः रसागार परमात्मन् ! (तम् उ) तं खलु (लोककृत्नुम्) लोकानां रचयितारम् (त्वा) त्वाम्, वयम् (घृष्वये) संघर्षक्षमाय (मदाय) उत्साहाय (ईमहे) प्राप्नुमः। वयम् (महे) महत्यै (प्रशस्तये) प्रशंसायै कीर्तये वा (तव) त्वत्सखायः, स्यामेति शेषः ॥८॥
भावार्थः - परमात्मना सह सख्यं संस्थाप्यैव मानवो जीवने साफल्यं विजयं यशश्च प्राप्तुं शक्नोति ॥८॥
टिप्पणीः -
१. ऋ० ९।२।८, ‘तव॒प्रश॑स्तयो म॒हीः’ इति तृतीयः पादः।