Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1067
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - आदित्याः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
0
प्र꣡ति꣢ वा꣣ꣳसू꣢र꣣ उ꣡दि꣢ते मि꣣त्रं꣡ गृ꣢णीषे꣣ व꣡रु꣢णम् । अ꣣र्यम꣡ण꣢ꣳ रि꣣शा꣡द꣢सम् ॥१०६७॥
स्वर सहित पद पाठप्र꣡ति꣢꣯ । वा꣣म् । सू꣡रे꣢꣯ । उ꣡दि꣢꣯ते । उत् । इ꣣ते । मित्र꣢म् । मि꣣ । त्र꣢म् । गृ꣣णीषे । व꣡रु꣢꣯णम् । अ꣣र्यम꣡ण꣢म् । रि꣣शा꣡द꣢सम् ॥१०६७॥
स्वर रहित मन्त्र
प्रति वाꣳसूर उदिते मित्रं गृणीषे वरुणम् । अर्यमणꣳ रिशादसम् ॥१०६७॥
स्वर रहित पद पाठ
प्रति । वाम् । सूरे । उदिते । उत् । इते । मित्रम् । मि । त्रम् । गृणीषे । वरुणम् । अर्यमणम् । रिशादसम् ॥१०६७॥
सामवेद - मन्त्र संख्या : 1067
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - अथ मित्रवरुणार्यम्णः स्तौति।
पदार्थः -
(सूरे उदिते) सूर्ये उदयं प्राप्ते सति, अहम् (वाम्) युवाम् (मित्रम्) सखायं जगदीश्वरम् (वरुणम्) वरणीयं जीवात्मानं च, अपि च (रिशादसम्) दोषनाशकम्, [रिशान् हिंसकान् दोषान् दस्यति उपक्षयति यः स रिशादाः तम्।] (अर्यमणम्) अरिनिग्रहीतारं प्राणं च (प्रतिगृणीषे) प्रत्येकशः गुणवर्णनेन स्तौमि। [गृणातेः स्तुतिकर्मणो लेटि उत्तमैकवचने रूपम्] ॥१॥
भावार्थः - प्रभातकाले मनुष्यैः स्वात्मोद्बोधनपुरस्सरं प्राणायामपूर्वकं च प्रत्यहं परमेश्वर उपासनीयः ॥१॥
टिप्पणीः -
१. ऋ० ७।६६।७।