ऋग्वेद - मण्डल 4/ सूक्त 30/ मन्त्र 1
नकि॑रिन्द्र॒ त्वदुत्त॑रो॒ न ज्यायाँ॑ अस्ति वृत्रहन्। नकि॑रे॒वा यथा॒ त्वम् ॥१॥
स्वर सहित पद पाठनकिः॑ । इ॒न्द्र॒ । त्वत् । उत्ऽत॑रः । न । ज्याया॑न् । अ॒स्ति॒ । वृ॒त्र॒ऽह॒न् । नकिः॑ । ए॒व । यथा॑ । त्वम् ॥
स्वर रहित मन्त्र
नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन्। नकिरेवा यथा त्वम् ॥१॥
स्वर रहित पद पाठनकिः। इन्द्र। त्वत्। उत्ऽतरः। न। ज्यायान्। अस्ति। वृत्रऽहन्। नकिः। एव। यथा। त्वम् ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 30; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 19; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 19; मन्त्र » 1
विषयः - अथ सूर्य्यदृष्टान्तेन राजविषयमाह ॥
अन्वयः - हे वृत्रहन्निन्द्र ! यथा त्वमसि तथैव त्वदुत्तरो नकिरस्ति न ज्यायानस्ति नकिरुत्तमश्चैव ॥१॥
पदार्थः -
(नकिः) निषेधे (इन्द्र) राजन् (त्वत्) (उत्तरः) पश्चात् (न) निषेधे (ज्यायान्) ज्येष्ठः (अस्ति) (वृत्रहन्) यो वृत्रं हन्ति स सूर्य्यस्तद्वद्वर्त्तमान (नकिः) (एव) अत्र निपातस्य चेति दीर्घः। (यथा) (त्वम्) ॥१॥
भावार्थः - हे मनुष्या ! यः सर्वेभ्यः श्रेष्ठो भवेत्तमेव राजानं कुरुत ॥१॥
इस भाष्य को एडिट करें