Loading...
ऋग्वेद मण्डल - 5 के सूक्त 48 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 48/ मन्त्र 5
    ऋषिः - प्रतिभानुरात्रेयः देवता - विश्वेदेवा: छन्दः - स्वराट्त्रिष्टुप् स्वरः - धैवतः

    स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा॑नो॒ वरु॑णो॒ यत॑न्न॒रिम्। न तस्य॑ विद्म पुरुष॒त्वता॑ व॒यं यतो॒ भगः॑ सवि॒ता दाति॒ वार्य॑म् ॥५॥

    स्वर सहित पद पाठ

    सः । जि॒ह्वया॑ । चतुः॑ऽअनीकः । ऋ॒ञ्ज॒ते॒ । चारु॑ । वसा॑नः । वरु॑णः । यत॑न् । अ॒रिम् । न । तस्य॑ । वि॒द्म॒ । पु॒रु॒ष॒ऽत्वता॑ । व॒यम् । यतः॑ । भगः॑ । स॒वि॒ता । दाति॑ । वार्य॑म् ॥


    स्वर रहित मन्त्र

    स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्नरिम्। न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥५॥

    स्वर रहित पद पाठ

    सः। जिह्वया। चतुःऽअनीकः। ऋञ्जते। चारु। वसानः। वरुणः। यतन्। अरिम्। न। तस्य। विद्म। पुरुषत्वता। वयम्। यतः। भगः। सविता। दाति। वार्यम् ॥५॥

    ऋग्वेद - मण्डल » 5; सूक्त » 48; मन्त्र » 5
    अष्टक » 4; अध्याय » 3; वर्ग » 2; मन्त्र » 5

    अन्वयः - यो वरुणश्चारु वसानश्चतुरनीको जिह्वयाऽरिं यतन् पुरुषत्वता भगः सविता वार्यं दाति स ऋञ्जते यतो वयं तस्य पुरुषार्थान्तं न विद्म ॥५॥

    पदार्थः -
    (सः) (जिह्वया) वाण्या (चतुरनीकः) चतुर्विधान्यनीकानि अस्य सः (ऋञ्जसे) प्रसाध्नोति (चारु) सुन्दरं वस्त्रम् (वसानः) धरन् (वरुणः) श्रेष्ठः (यतन्) यत्नं कुर्वन् (अरिम्) शत्रुम् (न) (तस्य) (विद्म) जानीयाम (पुरुषत्वता) बहुपुरुषार्थेन सह (वयम्) (यतः) (भगः) ऐश्वर्य्यवान् (सविता) सत्ये प्रेरकः (दाति) ददाति (वार्य्यम्) वर्त्तुं योग्यमुपदेशम् ॥५॥

    भावार्थः - यस्योत्तमं सैन्यं स एव राजा प्रशंसितो भवति ॥५॥ अत्र विद्वद्राजगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्यष्टाचत्वारिंशत्तमं सूक्तं द्वितीयो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top