Loading...
ऋग्वेद मण्डल - 5 के सूक्त 63 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 63/ मन्त्र 1
    ऋषिः - श्रुतिविदात्रेयः देवता - मित्रावरुणौ छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि। यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ॥१॥

    स्वर सहित पद पाठ

    ऋत॑स्य । गो॒पौ॒ । अधि॑ । ति॒ष्ठ॒थः॒ । रथ॑म् । सत्य॑ऽधर्माणा । प॒र॒मे । विऽओ॑मनि । यम् । अत्र॑ । मि॒त्रा॒व॒रु॒णा॒ । अव॑थः । यु॒वम् । तस्मै॑ । वृ॒ष्टिः । मधु॑ऽमत् । पि॒न्व॒ते॒ । दि॒वः ॥


    स्वर रहित मन्त्र

    ऋतस्य गोपावधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि। यमत्र मित्रावरुणावथो युवं तस्मै वृष्टिर्मधुमत्पिन्वते दिवः ॥१॥

    स्वर रहित पद पाठ

    ऋतस्य। गोपौ। अधि। तिष्ठथः। रथम्। सत्यऽधर्माणा। परमे। विऽओमानि। यम्। अत्र। मित्रावरुणा। अवथः। युवम्। तस्मै। वृष्टिः। मधुऽमत्। पिन्वते। दिवः ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 63; मन्त्र » 1
    अष्टक » 4; अध्याय » 4; वर्ग » 1; मन्त्र » 1

    अन्वयः - हे ऋतस्य गोपौ सत्यधर्माणा मित्रावरुणा राजामात्यौ ! युवं परमे व्योमनि स्थित्वा रथमधि तिष्ठथोऽत्र यमवथस्तस्मै दिवो वृष्टिर्मधुमत्पिन्वते ॥१॥

    पदार्थः -
    (ऋतस्य) सत्यस्य (गोपौ) रक्षकौ राजामात्यौ (अधि) (तिष्ठथः) (रथम्) (सत्यधर्माणा) सत्यो धर्मो ययोस्तौ (परमे) प्रकृष्टे (व्योमनि) व्योमवत्प्रकाशिते व्यापके परमात्मनि (यम्) (अत्र) राज्ये (मित्रावरुणा) (अवथः) (युवम्) युवाम् (तस्मै) (वृष्टिः) वर्षाः (मधुमत्) मधुरादिगुणयुक्तम् (पिन्वते) सिञ्चति (दिवः) अन्तरिक्षात् ॥१॥

    भावार्थः - यत्र धार्मिका विद्वांसः पुत्रमिव प्रजां पालयितारो राजादयो भवन्ति तत्र काले वृष्टिः काले मृत्युश्च जायते ॥१॥

    इस भाष्य को एडिट करें
    Top