ऋग्वेद - मण्डल 5/ सूक्त 63/ मन्त्र 6
ऋषिः - अर्चनाना आत्रेयः
देवता - मित्रावरुणौ
छन्दः - निचृज्जगती
स्वरः - निषादः
वाचं॒ सु मि॑त्रावरुणा॒विरा॑वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी॑मतीम्। अ॒भ्रा व॑सत म॒रुतः॒ सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पस॑म् ॥६॥
स्वर सहित पद पाठवाच॑म् । सु । मि॒त्रा॒व॒रु॒णौ॒ । इरा॑ऽवतीम् । प॒र्जन्यः॑ । चि॒त्राम् । व॒द॒ति॒ । त्विषि॑ऽमतीम् । अ॒भ्रा । व॒स॒त॒ । म॒रुतः॑ । सु । मा॒यया॑ । द्याम् । व॒र्ष॒य॒त॒म् । अ॒रु॒णाम् । अ॒रे॒पस॑म् ॥
स्वर रहित मन्त्र
वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीम्। अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसम् ॥६॥
स्वर रहित पद पाठवाचम्। सु। मित्रावरुणौ। इराऽवतीम्। पर्जन्यः। चित्राम्। वदति। त्विषिऽमतीम्। अभ्रा। वसत। मरुतः। सु। मायया। द्याम्। वर्षयतम्। अरुणाम्। अरेपसम् ॥६॥
ऋग्वेद - मण्डल » 5; सूक्त » 63; मन्त्र » 6
अष्टक » 4; अध्याय » 4; वर्ग » 1; मन्त्र » 6
अष्टक » 4; अध्याय » 4; वर्ग » 1; मन्त्र » 6
विषयः - पुनर्मित्रावरुणवाच्यविद्वद्विषयमाह ॥
अन्वयः - हे मित्रावरुणौ ! युवां यथा पर्जन्यो वदति तथेरावतीं त्विषीमतीं चित्रां वाचं वदतं यथाऽभ्राऽऽकाशे सन्ति तथैव मरुतः सु मायया सु वसत। हे मित्रावरुणावरुणामरेपसं द्यां युवां वर्षयतम् ॥६॥
पदार्थः -
(वाचम्) (सु) सुष्ठु (मित्रावरुणौ) अध्यापकाऽध्येतारौ (इरावतीम्) इरा जलानि विद्यन्ते यस्यास्ताम् (पर्जन्य) मेघः (चित्राम्) अद्भुताम् (वदति) (त्विषीमतीम्) प्रशस्तविद्याप्रकाशयुक्ताम् (अभ्रा) अभ्राणि (वसत) (मरुतः) मानवाः (सु, मायया) शोभनया प्रज्ञया (द्याम्) कामनाम् (वर्षयतम्) (अरुणाम्) प्राप्तव्याम् (अरेपसम्) अनपराधिनीम् ॥६॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या विद्यायुक्तां वाचं प्राप्य पर्जन्य इव कामान् वर्षयन्ति ते प्रज्ञया विदुषः सम्पाद्यानपराधिनः कुर्वन्ति ॥६॥
इस भाष्य को एडिट करें