ऋग्वेद - मण्डल 6/ सूक्त 25/ मन्त्र 7
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता। अ॒स्माका॑सो॒ ये नृत॑मासो अ॒र्य इन्द्र॑ सू॒रयो॑ दधि॒रे पु॒रो नः॑ ॥७॥
स्वर सहित पद पाठअध॑ । स्म॒ । ते॒ । च॒र्ष॒णयः॑ । यत् । एजा॑न् । इन्द्र॑ । त्रा॒ता । उ॒त । भ॒व॒ । व॒रू॒ता । अ॒स्माका॑सः । ये । नृऽत॑मासः । अ॒र्यः । इन्द्र॑ । सू॒रयः॑ । द॒धि॒रे । पु॒रः । नः॒ ॥
स्वर रहित मन्त्र
अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता। अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥७॥
स्वर रहित पद पाठअध। स्म। ते। चर्षणयः। यत्। एजान्। इन्द्र। त्राता। उत। भव। वरूता। अस्माकासः। ये। नृऽतमासः। अर्यः। इन्द्र। सूरयः। दधिरे। पुरः। नः ॥७॥
ऋग्वेद - मण्डल » 6; सूक्त » 25; मन्त्र » 7
अष्टक » 4; अध्याय » 6; वर्ग » 20; मन्त्र » 2
अष्टक » 4; अध्याय » 6; वर्ग » 20; मन्त्र » 2
विषयः - पुना राजा किं कुर्यादित्याह ॥
अन्वयः - हे इन्द्र ! ये तेऽस्माकासो नृतमासः सूरयश्चर्षणयो नः पुरो दधिरे तेषामर्यः सन्नध त्राता भव। हे इन्द्र ! यत्त्वमेजान् कुर्या उत वरूता स्मा भव ॥७॥
पदार्थः -
(अध) अनन्तरम् (स्मा) एव। अत्र निपातस्य चेति दीर्घः। (ते) तव (चर्षणयः) सर्वव्यवहारविचक्षणा मनुष्याः (यत्) (एजान्) भीरून् कम्पकान् (इन्द्र) परमैश्वर्यप्रद राजन् (त्राता) रक्षकः (उत) अपि (भव) अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (वरूता) श्रेष्ठः (अस्माकासः) अस्मदीयाः (ये) (नृतमासः) अतिशयेन नायकाः (अर्यः) ईश्वरो वा स्वामी (इन्द्र) दुष्टानां विदारक (सूरयः) विपश्चितः (दधिरे) दधतु (पुरः) नगराणि (नः) अस्माकम् ॥७॥
भावार्थः - हे राजन् ! विश्वस्तान् कुलीनान् मूलराज्ये भवानस्य राष्ट्रस्य सेनायाश्च मध्ये रक्षायै युञ्जीयाः तेषां रक्षां सततं कुर्याः ॥७॥
इस भाष्य को एडिट करें