Loading...
ऋग्वेद मण्डल - 6 के सूक्त 25 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 25/ मन्त्र 9
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे॑वीः। वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ भ॒रद्वा॑जा उ॒त त॑ इन्द्र नू॒नम् ॥९॥

    स्वर सहित पद पाठ

    ए॒व । नः॒ । स्पृधः॑ । सम् । अ॒ज॒ । स॒मत्ऽसु॑ । इन्द्र॑ । र॒र॒न्धि । मि॒थ॒तीः । अदे॑वीः । वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । भ॒रत्ऽवा॑जाः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥


    स्वर रहित मन्त्र

    एवा नः स्पृधः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः। विद्याम वस्तोरवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ॥९॥

    स्वर रहित पद पाठ

    एव। नः। स्पृधः। सम्। अज। समत्ऽसु। इन्द्र। ररन्धि। मिथतीः। अदेवीः। विद्याम। वस्तोः। अवसा। गृणन्तः। भरत्ऽवाजाः। उत। ते। इन्द्र। नूनम् ॥९॥

    ऋग्वेद - मण्डल » 6; सूक्त » 25; मन्त्र » 9
    अष्टक » 4; अध्याय » 6; वर्ग » 20; मन्त्र » 4

    अन्वयः - हे इन्द्र ! त्वं स्पृधो नोऽस्मान्त्समत्स्वेवा समजाऽदेवीर्मिथतीः शत्रुसेनाः समत्सु रारन्धि। हे इन्द्र ! येन ते तवाऽवसा वस्तोर्नूनं गृणन्त उत भरद्वाजा वयं विजयं विद्याम ॥९॥

    पदार्थः -
    (एवा) अत्र निपातस्य चेति दीर्घः। (नः) अस्मान् (स्पृधः) स्पर्द्धमानान् (सम्) (अजा) विज्ञापय। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (समत्सु) सङ्ग्रामेषु (इन्द्र) शत्रुबलविदारक (रारन्धि) रन्धय हिंधि। अत्र तुजादीनामित्यभ्यासदैर्घ्यम्। (मिथतीः) हिंसतीः (अदेवीः) अदिव्याः (विद्याम) (वस्तोः) दिवसस्य मध्ये (अवसा) रक्षणादिना (गृणन्तः) स्तुवन्तः (भरद्वाजाः) धृतशुद्धविज्ञानाः (उत) (ते) तव (इन्द्र) सर्वसुखप्रद (नूनम्) निश्चयेन ॥९॥

    भावार्थः - यो राजा सुभटान् वीरान् पुरस्तादेव सुशिक्ष्य युद्धेषु प्रेरयति तं सर्वथा रक्षकं सर्वे शूरा आश्रयन्तीति ॥९॥ अत्रेन्द्रशूरवीरसेनापतिराजकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति पञ्चविंशतितमं सूक्तं विंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top