ऋग्वेद - मण्डल 7/ सूक्त 55/ मन्त्र 1
अ॒मी॒व॒हा वा॑स्तोष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन्। सखा॑ सु॒शेव॑ एधि नः ॥१॥
स्वर सहित पद पाठअ॒मी॒व॒ऽहा । वा॒स्तोः॒ । प॒ते॒ । विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् । सखा॑ । सु॒ऽशेवः॑ । ए॒धि॒ । नः॒ ॥
स्वर रहित मन्त्र
अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन्। सखा सुशेव एधि नः ॥१॥
स्वर रहित पद पाठअमीवऽहा। वास्तोः। पते। विश्वा। रूपाणि। आऽविशन्। सखा। सुऽशेवः। एधि। नः ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 55; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 22; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 22; मन्त्र » 1
विषयः - अथ गृहपतिः किं कुर्यादित्याह ॥
अन्वयः - हे वास्तोष्पते ! यत्र गृहे विश्वा रूपाण्याविशन् तत्र नोऽमीवहा सखा सुशेवः सन्नेधि ॥१॥
पदार्थः -
(अमीवहा) योऽमीवान् रोगान् हन्ति (वास्तोः) गृहस्य (पते) स्वामिन् (विश्वा) सर्वाणि (रूपाणि) (आविशन्) आविशन्ति (सखा) सुहृत् (सुशेवः) सुष्ठुसुखः (एधि) भव (नः) अस्मभ्यम् ॥१॥
भावार्थः - हे गृहस्था ! यूयं सर्वप्रकाराण्युत्तमानि गृहाणि निर्माय सुखिनो भवत ॥१॥
इस भाष्य को एडिट करें