Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1401
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

स꣡मु꣢ प्रि꣣यो꣡ मृ꣢ज्यते꣣ सा꣢नौ꣣ अ꣡व्ये꣢ य꣣श꣡स्त꣢रो य꣣श꣢सां꣣ क्षै꣡तो꣢ अ꣣स्मे꣢ । अ꣣भि꣡ स्व꣢र꣣ ध꣡न्वा꣢ पू꣣य꣡मा꣢नो यू꣣यं꣡ पा꣢त स्व꣣स्ति꣢भिः꣣ स꣡दा꣢ नः ॥१४०१॥

स्वर सहित पद पाठ

स꣢म् । उ꣣ । प्रियः꣢ । मृ꣣ज्यते । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । य꣣श꣡स्त꣢रः । य꣣श꣡सा꣢म् । क्षै꣡तः꣢꣯ । अ꣣स्मे꣢इति꣢ । अ꣣भि꣢ । स्व꣣र । ध꣡न्व꣢꣯ । पू꣣य꣡मा꣢नः । यू꣣य꣢म् । पा꣣त । स्व꣣स्ति꣡भिः꣢ । सु꣣ । अस्ति꣡भिः꣢꣯ । स꣡दा꣢꣯ । नः꣣ ॥१४०१॥


स्वर रहित मन्त्र

समु प्रियो मृज्यते सानौ अव्ये यशस्तरो यशसां क्षैतो अस्मे । अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥१४०१॥


स्वर रहित पद पाठ

सम् । उ । प्रियः । मृज्यते । सानौ । अव्ये । यशस्तरः । यशसाम् । क्षैतः । अस्मेइति । अभि । स्वर । धन्व । पूयमानः । यूयम् । पात । स्वस्तिभिः । सु । अस्तिभिः । सदा । नः ॥१४०१॥

सामवेद - मन्त्र संख्या : 1401
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment

Meaning -
O Soma spirit of power and poetic creativity, exalted on top of protection, defence and advancement, honoured of the honourable, of the earth earthy for our sake, shine and resound across the spaces. O divinities, pray protect and promote us with all round well being and good fortune for all time. (Rg. 9-97-3)

इस भाष्य को एडिट करें
Top