Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 54
    ऋषिः - बन्धुर्ऋषिः देवता - मनो देवता छन्दः - विराट् गायत्री, स्वरः - षड्जः
    6

    आ न॑ऽएतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑। ज्योक् च॒ सूर्यं॑ दृ॒शे॥५४॥

    स्वर सहित पद पाठ

    आ। नः॒। ए॒तु॒। मनः॑। पुन॒रिति॒ पुनः॑। क्रत्वे॑। दक्षा॑य। जी॒वसे॑। ज्योक्। च॒। सूर्य॑म्। दृ॒शे ॥५४॥


    स्वर रहित मन्त्र

    आ न एतु मनः पुनः क्रत्वे दक्षाय जीवषे । ज्योक्च सूर्यन्दृशे ॥


    स्वर रहित पद पाठ

    आ। नः। एतु। मनः। पुनरिति पुनः। क्रत्वे। दक्षाय। जीवसे। ज्योक्। च। सूर्यम्। दृशे॥५४॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 54
    Acknowledgment

    सपदार्थान्वयः -

    यन्मनः स्मरणात्मकं चित्तं ज्योक्=निरन्तरं सूर्यं परमेश्वरं, सवितृमण्डलं, प्राणं वा दृशेद्रष्टुं क्रत्वे सद्विद्याशुभकर्मानुभूतं संस्कारस्तृत ये दक्षाय बलप्राप्तये जीवसे जीवितुं च=अन्येषां शुभकर्मणामनुष्ठानायास्ति तत् नः=अस्मान् [पुनः]=पुनः पुनः, वारं वारं जन्मनि जन्मनि वा =समन्ताद् एतु=प्राप्नोतु ।। ३ । ५४ ।।

    [ यन्मनः.....क्रत्वे......जीवसे  च=अन्येषां शुभकर्मणामनुष्ठानायास्ति तन्नः=अस्मान् [पुनः]=पुनः पुनः आ=समन्तादेतु=प्राप्नोतु ]

    पदार्थः -

    (आ) समन्तात् (नः) अस्मान् (एतु) प्राप्नोतु (मनः) स्मरणात्मकं चित्तम् (पुनः) वारं वारं जन्मनि जन्मनि वा (क्रत्वे) सद्विद्याशुभकर्मानुभूतसंस्कारस्मृतये । क्रतुरिति कर्मनामसु पठितम् ॥ निघं० २ ।१ ॥ (दक्षाय) लप्राप्तये । दक्ष इति बलनामसु पठितम् ॥ निघं. २ ॥॥ (जीवसे) जीवितुम्अत्र तुमर्थे से० । इत्यसे प्रत्ययः (ज्योक्) निरन्तरम् (च) समुच्चये (सूर्यम्) परमेश्वरं सवितृमण्डलं प्राणं वा (दृशे) द्रष्टुम्। अत्र दृशे विख्ये च ॥ अ॰ ३ ।४ ।११ ॥ इत्ययं निपातितः ॥ अयं मन्त्रः शत० २ ।६ ।१ । ३९ व्याख्यातः ॥ ५४ ॥

    भावार्थः -

    मनुष्यैः श्रेष्ठकर्मानुष्ठानेन चित्तशुद्धिं कृत्वा पुनःपुनर्जन्मनि चित्तप्राप्तिरेवापेक्ष्या, येन मनुष्यजन्म प्राप्येश्वरोपासनं संराध्य निरन्तरं सद्धर्मोऽनुसेव्य इति ॥ ३ । ५४ ॥

    विशेषः -

    बन्धुः । मनः=स्पष्टम् ॥ विराड् गायत्री । षड्जः ।।

    इस भाष्य को एडिट करें
    Top