ऋग्वेद - मण्डल 1/ सूक्त 124/ मन्त्र 13
ऋषिः - कक्षीवान् दैर्घतमसः औशिजः
देवता - उषाः
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
अस्तो॑ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी॑वृधध्वमुश॒तीरु॑षासः। यु॒ष्माकं॑ देवी॒रव॑सा सनेम सह॒स्रिणं॑ च श॒तिनं॑ च॒ वाज॑म् ॥
स्वर सहित पद पाठअस्तो॑ढ्वम् । स्तो॒म्याः॒ । ब्रह्म॑णा । मे॒ । अवी॑वृधध्वम् । उ॒श॒तीः । उ॒ष॒सः॒ । यु॒ष्माक॑म् । दे॒वीः॒ । अव॑सा । स॒ने॒म॒ । स॒ह॒स्रिण॑म् । च॒ । श॒तिन॑म् । च॒ । वाज॑म् ॥
स्वर रहित मन्त्र
अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः। युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥
स्वर रहित पद पाठअस्तोढ्वम्। स्तोम्याः। ब्रह्मणा। मे। अवीवृधध्वम्। उशतीः। उषसः। युष्माकम्। देवीः। अवसा। सनेम। सहस्रिणम्। च। शतिनम्। च। वाजम् ॥ १.१२४.१३
ऋग्वेद - मण्डल » 1; सूक्त » 124; मन्त्र » 13
अष्टक » 2; अध्याय » 1; वर्ग » 9; मन्त्र » 3
अष्टक » 2; अध्याय » 1; वर्ग » 9; मन्त्र » 3
भावार्थ - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी उषा शुभ गुण, कर्म, स्वभावयुक्त असते. तशी स्त्री असावी. तशीच माणसेही असावीत. जसे इतर विद्वानांकडून आपल्या प्रयोजनासाठी विद्या घेतो तशी प्रेमाने इतरांनाही ती द्यावी. ॥ १३ ॥
इस भाष्य को एडिट करें