Loading...
ऋग्वेद मण्डल - 10 के सूक्त 115 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 115/ मन्त्र 1
    ऋषिः - उपस्तुतो वार्ष्टिहव्यः देवता - अग्निः छन्दः - विराड्जगती स्वरः - निषादः

    चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा॑व॒प्येति॒ धात॑वे । अ॒नू॒धा यदि॒ जीज॑न॒दधा॑ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्यं१॒॑ चर॑न् ॥

    स्वर सहित पद पाठ

    चि॒त्रः । इत् । शिशोः॑ । तरु॑णस्य । व॒क्षथः॑ । न । यः । मा॒तरौ॑ । अ॒पि॒ऽएति॑ । धात॑वे । अ॒नू॒धाः । यदि॑ । जीज॑नत् । अधा॑ । च॒ । नु । व॒वक्ष॑ । स॒द्यः । महि॑ । दू॒त्य॑म् । चर॑न् ॥


    स्वर रहित मन्त्र

    चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येति धातवे । अनूधा यदि जीजनदधा च नु ववक्ष सद्यो महि दूत्यं१ चरन् ॥

    स्वर रहित पद पाठ

    चित्रः । इत् । शिशोः । तरुणस्य । वक्षथः । न । यः । मातरौ । अपिऽएति । धातवे । अनूधाः । यदि । जीजनत् । अधा । च । नु । ववक्ष । सद्यः । महि । दूत्यम् । चरन् ॥ १०.११५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 115; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 18; मन्त्र » 1

    भावार्थ - प्रशंसनीय नित्य युवा अग्रनेता परमात्मा महान प्रतापी आहे. जो जगाला वहन करतो. जरी द्यावा पृथ्वी, द्युलोक व पृथ्वीलोक संसाराच्या माता आहेत; परंतु परमात्म्याच्या माता नाहीत. स्वत: परमात्मा त्यांना मातृभूत उत्पन्न करणारा आहे. त्यासाठी विश्वविज्ञानात परमात्म्याला प्रमुखता द्यावी. ॥१॥

    इस भाष्य को एडिट करें
    Top