Loading...
ऋग्वेद मण्डल - 10 के सूक्त 129 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 129/ मन्त्र 1
    ऋषिः - प्रजापतिः परमेष्ठी देवता - भाववृत्तम् छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् । किमाव॑रीव॒: कुह॒ कस्य॒ शर्म॒न्नम्भ॒: किमा॑सी॒द्गह॑नं गभी॒रम् ॥

    स्वर सहित पद पाठ

    न । अस॑त् । आ॒सी॒त् । नो इति॑ । सत् । आ॒सी॒त् । त॒दानी॑म् । न । आ॒सी॒त् । रजः॑ । नो इति॑ । विऽओ॑म । प॒रः । यत् । किम् । आ । अ॒व॒री॒व॒रिति॑ । कुह॑ । कस्य॑ । शर्म॑न् । अम्भः॑ । किम् । आ॒सी॒त् । गह॑नम् । ग॒भी॒रम् ॥


    स्वर रहित मन्त्र

    नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । किमावरीव: कुह कस्य शर्मन्नम्भ: किमासीद्गहनं गभीरम् ॥

    स्वर रहित पद पाठ

    न । असत् । आसीत् । नो इति । सत् । आसीत् । तदानीम् । न । आसीत् । रजः । नो इति । विऽओम । परः । यत् । किम् । आ । अवरीवरिति । कुह । कस्य । शर्मन् । अम्भः । किम् । आसीत् । गहनम् । गभीरम् ॥ १०.१२९.१

    ऋग्वेद - मण्डल » 10; सूक्त » 129; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 1

    भावार्थ - सृष्टीच्या पूर्वी शून्य नव्हते. अत्यंत अभाव नव्हता; परंतु जे होते ते प्रकटरूपही नव्हते. रंजनात्मक कणमय गगन नव्हते किंवा परवर्ती सीमावर्ती आवर्त घेरा नव्हता. जेव्हा आवरणीय पदार्थ किंवा जगत नव्हते. तेव्हा आवर्तही कसे असेल? तेही नव्हते. मग सुख शरण कुणासाठी असेल. भोग्य, भोक्त्यांची वर्तमानताही नव्हती. सूक्ष्म जल परमाणू प्रवाह किंवा परमाणू समुद्रही नव्हता. सांगण्यायोग्य काहीही नव्हते; पण काही अप्रकट रूप होते. ॥१॥

    इस भाष्य को एडिट करें
    Top