ऋग्वेद - मण्डल 10/ सूक्त 147/ मन्त्र 1
श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः । उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥
स्वर सहित पद पाठश्रत् । ते॒ । द॒धा॒मि॒ । प्र॒थ॒माय॑ । म॒न्यवे॑ । अह॑न् । यत् । वृ॒त्रम् । नर्य॑म् । वि॒वेः । अ॒पः । उ॒भे इति॑ । यत् । त्वा॒ । भव॑तः । रोद॑सी॒ इति॑ । अनु॑ । रेज॑ते । शुष्मा॑त् । पृ॒थि॒वी । चि॒त् । अ॒द्रि॒ऽवः॒ ॥
स्वर रहित मन्त्र
श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्वृत्रं नर्यं विवेरपः । उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात्पृथिवी चिदद्रिवः ॥
स्वर रहित पद पाठश्रत् । ते । दधामि । प्रथमाय । मन्यवे । अहन् । यत् । वृत्रम् । नर्यम् । विवेः । अपः । उभे इति । यत् । त्वा । भवतः । रोदसी इति । अनु । रेजते । शुष्मात् । पृथिवी । चित् । अद्रिऽवः ॥ १०.१४७.१
ऋग्वेद - मण्डल » 10; सूक्त » 147; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 1
भावार्थ - परमात्मा अत्यंत बलवान आहे. मेघाला छिन्नभिन्न करतो व पाणी खाली वाहते. द्युलोक, पृथ्वीलोक त्याच्या अधीन असतात. अंतरिक्षात कंपन, विद्युत संचार, वायू प्रचार (पसरणे) हे सर्व परमात्म्याच्या शासनात असतात. ॥१॥
इस भाष्य को एडिट करें