Loading...
ऋग्वेद मण्डल - 10 के सूक्त 170 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 170/ मन्त्र 3
    ऋषिः - विभ्राट् सूर्यः देवता - सूर्यः छन्दः - विराड्जगती स्वरः - निषादः

    इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् । वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तम् ॥

    स्वर सहित पद पाठ

    इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । उ॒त्ऽत॒मम् । वि॒श्व॒ऽजित् । ध॒न॒ऽजित् । उ॒च्य॒ते॒ । बृ॒हत् । वि॒श्व॒ऽभ्राट् । भ्रा॒जः । महि॑ । सूर्यः॑ । दृ॒शे । उ॒रु । प॒प्र॒थे॒ । सहः॑ । ओजः॑ । अच्यु॑तम् ॥


    स्वर रहित मन्त्र

    इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥

    स्वर रहित पद पाठ

    इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । उत्ऽतमम् । विश्वऽजित् । धनऽजित् । उच्यते । बृहत् । विश्वऽभ्राट् । भ्राजः । महि । सूर्यः । दृशे । उरु । पप्रथे । सहः । ओजः । अच्युतम् ॥ १०.१७०.३

    ऋग्वेद - मण्डल » 10; सूक्त » 170; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 28; मन्त्र » 3

    भावार्थ - आकाशात सूर्य सर्व ज्योतींचा ज्योती, श्रेष्ठ व महान आहे. तो जगाला (दृश्य) दाखविणारा असून मोठा तेजस्वी व प्रतापी आहे.॥३॥

    इस भाष्य को एडिट करें
    Top