ऋग्वेद - मण्डल 10/ सूक्त 34/ मन्त्र 1
ऋषिः - कवष ऐलूष अक्षो वा मौजवान्
देवता - अक्षकृषिप्रशंसा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयन्ति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः । सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥
स्वर सहित पद पाठप्रा॒वे॒पाः । मा॒ । बृ॒ह॒तः । मा॒द॒य॒न्ति॒ । प्र॒वा॒ते॒ऽजाः । इरि॑णे । वर्वृ॑तानाः । सोम॑स्यऽइव । मौ॒ज॒ऽव॒तस्य॑ । भ॒क्षः । वि॒ऽभीद॑कः । जागृ॑विः । मह्य॑म् । अ॒च्छा॒न् ॥
स्वर रहित मन्त्र
प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥
स्वर रहित पद पाठप्रावेपाः । मा । बृहतः । मादयन्ति । प्रवातेऽजाः । इरिणे । वर्वृतानाः । सोमस्यऽइव । मौजऽवतस्य । भक्षः । विऽभीदकः । जागृविः । मह्यम् । अच्छान् ॥ १०.३४.१
ऋग्वेद - मण्डल » 10; सूक्त » 34; मन्त्र » 1
अष्टक » 7; अध्याय » 8; वर्ग » 3; मन्त्र » 1
अष्टक » 7; अध्याय » 8; वर्ग » 3; मन्त्र » 1
भावार्थ - जुगारातील फासे जुगाऱ्याला जुगार खेळण्यात सोमपानासारखा हर्षाचा अनुभव करवितात व जागृती करवितात असे जुगाऱ्याला वाटते. ॥१॥
इस भाष्य को एडिट करें