ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 1
ऋषिः - नाभानेदिष्ठो मानवः
देवता - विश्वे देवा आङ्गिरसो वा
छन्दः - विराड्जगती
स्वरः - निषादः
ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒ इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा॑न॒श । तेभ्यो॑ भ॒द्रम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
स्वर सहित पद पाठये । य॒ज्ञेन॑ । दक्षि॑णया । सम्ऽअ॑क्ताः । इन्द्र॑स्य । स॒ख्यम् । अ॒मृत॒ऽत्वम् । आ॒न॒श । तेभ्यः॑ । भ॒द्रम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥
स्वर रहित मन्त्र
ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश । तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
स्वर रहित पद पाठये । यज्ञेन । दक्षिणया । सम्ऽअक्ताः । इन्द्रस्य । सख्यम् । अमृतऽत्वम् । आनश । तेभ्यः । भद्रम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥ १०.६२.१
ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 1
अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 1
अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 1
भावार्थ - जे अध्यात्मयज्ञ व आत्मसमर्पणाद्वारे स्वत:ला सिद्ध-सुसज्जित करतात. ते परमेश्वराचा मित्रभाव व अमृतस्वरूप प्राप्त करतात. ते अशा इतर आत्म्यांना सुख देणारे, उत्तम प्रेरणा करणारे व योग्य माणसाला आपल्या ज्ञानाचे शिक्षण देणारे बनतात, त्यांचे कल्याण होते. ॥१॥
इस भाष्य को एडिट करें