Loading...
ऋग्वेद मण्डल - 10 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 67/ मन्त्र 2
    ऋषिः - अयास्यः देवता - बृहस्पतिः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः । विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥

    स्वर सहित पद पाठ

    ऋ॒तम् । शंस॑न्तः । ऋ॒जु । दीध्या॑नाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । विप्र॑म् । प॒दम् । अङ्गि॑रसः । दधा॑नाः । य॒ज्ञस्य॑ । धाम॑ । प्र॒थ॒मम् । म॒न॒न्त॒ ॥


    स्वर रहित मन्त्र

    ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः । विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥

    स्वर रहित पद पाठ

    ऋतम् । शंसन्तः । ऋजु । दीध्यानाः । दिवः । पुत्रासः । असुरस्य । वीराः । विप्रम् । पदम् । अङ्गिरसः । दधानाः । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥ १०.६७.२

    ऋग्वेद - मण्डल » 10; सूक्त » 67; मन्त्र » 2
    अष्टक » 8; अध्याय » 2; वर्ग » 15; मन्त्र » 2

    भावार्थ - सृष्टीच्या आरंभी परम ऋषी वेदज्ञानाचा उपदेश करतात. ते परमात्म्याच्या ध्यानात मग्न होऊन परमात्म्याच्या पुत्राप्रमाणे आपल्या इंद्रियांचे स्वामी-संयमी असतात. ते परमात्म्याच्या स्वरूपाला यथार्थ रूपाने जाणतात व इतरांनाही ज्ञान देतात. ॥२॥

    इस भाष्य को एडिट करें
    Top