Loading...
ऋग्वेद मण्डल - 10 के सूक्त 95 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 95/ मन्त्र 1
    ऋषिः - पुरूरवा ऐळः देवता - उर्वशी छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु । न नौ॒ मन्त्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ॥

    स्वर सहित पद पाठ

    ह॒ये । जाये॑ । मन॑सा । तिष्ठ॑ । घोरे॑ । वचां॑सि । मि॒श्रा । कृ॒ण॒वा॒व॒है॒ । नु । न । नौ॒ । मन्त्राः॑ । अनु॑दितासः । ए॒ते । मयः॑ । क॒र॒न् । पर॑ऽतरे । च॒न । अह॑न् ॥


    स्वर रहित मन्त्र

    हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु । न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन् ॥

    स्वर रहित पद पाठ

    हये । जाये । मनसा । तिष्ठ । घोरे । वचांसि । मिश्रा । कृणवावहै । नु । न । नौ । मन्त्राः । अनुदितासः । एते । मयः । करन् । परऽतरे । चन । अहन् ॥ १०.९५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 95; मन्त्र » 1
    अष्टक » 8; अध्याय » 5; वर्ग » 1; मन्त्र » 1

    भावार्थ - युवक-युवतीचा विवाह झाला पाहिजे. युवक भावी स्नेह बंधनासाठी संतानाविषयी विचार प्रस्तुत करतो व राजा राज्याभिषेकानंतर अधिक संबंध दृढ करण्याचा विचार करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top