ऋग्वेद - मण्डल 2/ सूक्त 27/ मन्त्र 15
ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा
देवता - आदित्याः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न्। उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै॥
स्वर सहित पद पाठउ॒भे इति॑ । अ॒स्मै॒ । पी॒प॒य॒तः॒ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । वृ॒ष्टिम् । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् । उ॒भा । क्षयौ॑ । आ॒ऽजय॑न् । या॒ति॒ । पृ॒त्ऽसु । उ॒भौ । अर्धौ॑ । भ॒व॒तः॒ । सा॒धू इति॑ । अ॒स्मै॒ ॥
स्वर रहित मन्त्र
उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन्। उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै॥
स्वर रहित पद पाठउभे इति। अस्मै। पीपयतः। समीची इति सम्ऽईची। दिवः। वृष्टिम्। सुऽभगः। नाम। पुष्यन्। उभा। क्षयौ। आऽजयन्। याति। पृत्ऽसु। उभौ। अर्धौ। भवतः। साधू इति। अस्मै॥
ऋग्वेद - मण्डल » 2; सूक्त » 27; मन्त्र » 15
अष्टक » 2; अध्याय » 7; वर्ग » 8; मन्त्र » 5
अष्टक » 2; अध्याय » 7; वर्ग » 8; मन्त्र » 5
भावार्थ - या मंत्रात वाचकलुप्तोपमालंकार आहे. सूर्याचे तेज जसे जगाला प्रकाशित करते, तसे जे स्त्री-पुरुष राज्याचे पोषण करतात व उत्तम चरित्राचे असतात ते न्यायाधीश बनतात. ॥ १५ ॥
इस भाष्य को एडिट करें