Loading...
ऋग्वेद मण्डल - 2 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 3/ मन्त्र 1
    ऋषिः - गृत्समदः शौनकः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ् विश्वा॑नि॒ भुव॑नान्यस्थात्। होता॑ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न्॥

    स्वर सहित पद पाठ

    सम्ऽइ॑द्धः । अ॒ग्निः । निऽहि॑तः । पृ॒थि॒व्याम् । प्र॒त्यङ् । विश्वा॑नि । भुव॑नानि । अ॒स्था॒त् । होता॑ । पा॒व॒कः । प्र॒ऽदिवः॑ । सु॒ऽमे॒धाः । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥


    स्वर रहित मन्त्र

    समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ् विश्वानि भुवनान्यस्थात्। होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन्॥

    स्वर रहित पद पाठ

    सम्ऽइद्धः। अग्निः। निऽहितः। पृथिव्याम्। प्रत्यङ्। विश्वानि। भुवनानि। अस्थात्। होता। पावकः। प्रऽदिवः। सुऽमेधाः। देवः। देवान्। यजतु। अग्निः। अर्हन्॥

    ऋग्वेद - मण्डल » 2; सूक्त » 3; मन्त्र » 1
    अष्टक » 2; अध्याय » 5; वर्ग » 22; मन्त्र » 1

    भावार्थ - या मंत्रात वाचकलुप्तोपमालंकार आहे. ईश्वराने या जगात अग्नी निर्माण केला नसता तर कोणताही प्राणी सुखी झाला नसता. जसा विद्वान विद्वानांचा सत्कार करतो तसे इतर लोकांनीही विद्वानांचा सत्कार करावा. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top