ऋग्वेद - मण्डल 2/ सूक्त 30/ मन्त्र 2
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच। प॒थो रद॑न्ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो य॒न्त्यर्थ॑म्॥
स्वर सहित पद पाठयः । वृ॒त्राय॑ । सिन॑म् । अत्र॑ । अभ॑रिष्यत् । प्र । तम् । जनि॑त्री । वि॒दुषे॑ । उ॒वा॒च॒ । प॒थः । रद॑न्तीः । अनु॑ । जोष॑म् । अ॒स्मै॒ । दि॒वेऽदि॑वे । धुन॑यः । य॒न्ति॒ । अर्थ॑म् ॥
स्वर रहित मन्त्र
यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच। पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम्॥
स्वर रहित पद पाठयः। वृत्राय। सिनम्। अत्र। अभरिष्यत्। प्र। तम्। जनित्री। विदुषे। उवाच। पथः। रदन्तीः। अनु। जोषम्। अस्मै। दिवेऽदिवे। धुनयः। यन्ति। अर्थम्॥
ऋग्वेद - मण्डल » 2; सूक्त » 30; मन्त्र » 2
अष्टक » 2; अध्याय » 7; वर्ग » 12; मन्त्र » 2
अष्टक » 2; अध्याय » 7; वर्ग » 12; मन्त्र » 2
भावार्थ - जसा सूर्य मेघांना बंदिस्त करतो तसा पृथ्वी इत्यादी गोलांनाही करतो. जसे सूर्यमंडल नियमित रस ओढून योग्य वेळी वृष्टी करते, तशी सूर्याची किरणेही प्रत्येक पदार्थावर पडतात. ॥ २ ॥
इस भाष्य को एडिट करें