ऋग्वेद - मण्डल 4/ सूक्त 13/ मन्त्र 2
ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑। अनु॑ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं॑ दि॒व्या॑रो॒हय॑न्ति ॥२॥
स्वर सहित पद पाठऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । द्र॒प्सम् । दवि॑ध्वत् । गो॒ऽइ॒षः । न । सत्वा॑ । अनु॑ । व्र॒तम् । वरु॑णः । य॒न्ति॒ । मि॒त्रः । यत् । सूर्य॑म् । दि॒वि । आ॒ऽरो॒हय॑न्ति ॥
स्वर रहित मन्त्र
ऊर्ध्वं भानुं सविता देवो अश्रेद्द्रप्सं दविध्वद्गविषो न सत्वा। अनु व्रतं वरुणो यन्ति मित्रो यत्सूर्यं दिव्यारोहयन्ति ॥२॥
स्वर रहित पद पाठऊर्ध्वम्। भानुम्। सविता। देवः। अश्रेत्। द्रप्सम्। दविध्वत्। गोऽइषः। न। सत्वा। अनु। व्रतम्। वरुणः। यन्ति। मित्रः। यत्। सूर्यम्। दिवि। आऽरोहयन्ति ॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 13; मन्त्र » 2
अष्टक » 3; अध्याय » 5; वर्ग » 13; मन्त्र » 2
अष्टक » 3; अध्याय » 5; वर्ग » 13; मन्त्र » 2
भावार्थ - या मंत्रात उपमालंकार आहे. या सृष्टीत परमेश्वराने जसे सूर्याच्या उत्पत्तीपासून जल, अग्नी, पवन निर्माण केलेले आहेत, तसेच पृथ्वी इत्यादींचेही निमित्तकारण उत्पन्न केलेले आहे, हे जाणले पाहिजे. ॥ २ ॥
इस भाष्य को एडिट करें