ऋग्वेद - मण्डल 4/ सूक्त 25/ मन्त्र 5
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑तिः॒ शर्म॑ यंसत्। प्रि॒यः सु॒कृत्प्रि॒य इन्द्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ॥५॥
स्वर सहित पद पाठन । तम् । जि॒न॒न्ति॒ । ब॒हवः॑ । न । द॒भ्राः । उ॒रु । अ॒स्मै॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् । प्रि॒यः । सु॒ऽकृत् । प्रि॒यः । इन्द्रे॑ । म॒ना॒युः । प्रि॒यः । सु॒प्र॒ऽअ॒वीः । प्रि॒यः । अ॒स्य॒ । सो॒मी ॥
स्वर रहित मन्त्र
न तं जिनन्ति बहवो न दभ्रा उर्वस्मा अदितिः शर्म यंसत्। प्रियः सुकृत्प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥५॥
स्वर रहित पद पाठन। तम्। जिनन्ति। बहवः। न। दभ्राः। उरु। अस्मै। अदितिः। शर्म। यंसत्। प्रियः। सुऽकृत्। प्रियः। इन्द्रे। मनायुः। प्रियः। सुप्रऽअवीः। प्रियः। अस्य। सोमी ॥५॥
ऋग्वेद - मण्डल » 4; सूक्त » 25; मन्त्र » 5
अष्टक » 3; अध्याय » 6; वर्ग » 13; मन्त्र » 5
अष्टक » 3; अध्याय » 6; वर्ग » 13; मन्त्र » 5
भावार्थ - जे अजातशत्रू, परमेश्वराचे उपासक, सर्वांचे प्रिय करणारे लोक असतात त्यांना कोणी शत्रू जिंकू शकत नाही. जशी माता किंवा उत्तम घर प्राप्त करून मनुष्य सुखाचे आचरण करतो, तसेच तो सर्व सुख प्राप्त करून सतत आनंदाने राहतो. ॥ ५ ॥
इस भाष्य को एडिट करें