Loading...
ऋग्वेद मण्डल - 4 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 36/ मन्त्र 8
    ऋषिः - वामदेवो गौतमः देवता - ऋभवः छन्दः - स्वराट्त्रिष्टुप् स्वरः - धैवतः

    यू॒यम॒स्मभ्यं॑ धि॒षणा॑भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना। द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो॑ र॒यिमृ॑भवस्तक्ष॒ता वयः॑ ॥८॥

    स्वर सहित पद पाठ

    यू॒यम् । अ॒स्मभ्य॑म् । धि॒षणा॑भ्यः । परि॑ । वि॒द्वांसः॑ । विश्वा॑ । नर्या॑णि । भोज॑ना । द्यु॒ऽमन्त॑म् । वाज॑म् । वृष॑ऽशुष्मम् । उ॒त्ऽत॒मम् । आ । नः॒ । र॒यिम् । ऋ॒भ॒वः॒ । त॒क्ष॒त॒ । आ । वयः॑ ॥


    स्वर रहित मन्त्र

    यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना। द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥८॥

    स्वर रहित पद पाठ

    यूयम्। अस्मभ्यम्। धिषणाभ्यः। परि। विद्वांसः। विश्वा। नर्याणि। भोजना। द्युऽमन्तम्। वाजम्। वृषऽशुष्मम्। उत्ऽतमम्। आ। नः। रयिम्। ऋभवः। तक्षत। आ। वयः ॥८॥

    ऋग्वेद - मण्डल » 4; सूक्त » 36; मन्त्र » 8
    अष्टक » 3; अध्याय » 7; वर्ग » 8; मन्त्र » 3

    भावार्थ - जे विद्वान शिकविण्याने व उपदेश करण्याने माणसांची बुद्धी वाढवितात ते सर्वांचे हितकर्ते असतात, हे जाणावे. ॥ ८ ॥

    इस भाष्य को एडिट करें
    Top