ऋग्वेद - मण्डल 5/ सूक्त 34/ मन्त्र 9
स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः। तस्मा॒ आपः॑ सं॒यतः॑ पीपयन्त॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥९॥
स्वर सहित पद पाठस॒ह॒स्र॒ऽसाम् । आग्नि॑ऽवेशिम् । गृ॒णी॒षे॒ । शत्रि॑म् । अ॒ग्ने॒ । उ॒प॒ऽमाम् । के॒तुम् । अ॒र्यः । तस्मै॑ । आपः॑ । स॒म्ऽयतः॑ । पी॒प॒य॒न्त॒ । तस्मि॑न् । क्ष॒त्रम् । अम॑ऽवत् । त्वे॒षम् । अ॒स्तु॒ ॥
स्वर रहित मन्त्र
सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः। तस्मा आपः संयतः पीपयन्त तस्मिन्क्षत्रममवत्त्वेषमस्तु ॥९॥
स्वर रहित पद पाठसहस्रऽसाम्। आग्निऽवेशिम्। गृणीषे। शत्रिम्। अग्ने। उपऽमाम्। केतुम्। अर्यः। तस्मै। आपः। संऽयतः। पीपयन्त। तस्मिन्। क्षत्रम्। अमऽवत्। त्वेषम्। अस्तु ॥९॥
ऋग्वेद - मण्डल » 5; सूक्त » 34; मन्त्र » 9
अष्टक » 4; अध्याय » 2; वर्ग » 4; मन्त्र » 4
अष्टक » 4; अध्याय » 2; वर्ग » 4; मन्त्र » 4
भावार्थ - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याला राजा होण्याची इच्छा असेल त्याने जसे पितृगण पुत्रांचे पालन करतात तसे सर्व शास्त्रात प्रवीण व उत्तम गुणयुक्त बुद्धीने प्रजेचे पालन करावे. याप्रमाणे श्रेष्ठ राज्याचे वर्धन करावे. ॥ ९ ॥
इस भाष्य को एडिट करें