ऋग्वेद - मण्डल 5/ सूक्त 45/ मन्त्र 10
ऋषिः - सदापृण आत्रेयः
देवता - विश्वेदेवा:
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
आ सूर्यो॑ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो॑ वी॒तपृ॑ष्ठाः। उ॒द्ना न नाव॑मनयन्त॒ धीरा॑ आशृण्व॒तीरापो॑ अ॒र्वाग॑तिष्ठन् ॥१०॥
स्वर सहित पद पाठआ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ । अयु॑क्त । यत् । ह॒रितः॑ । वी॒तऽपृ॑ष्ठाः । उ॒द्ना । न । नाव॑म् । अ॒न॒य॒न्त॒ । धीराः॑ । आ॒ऽशृ॒ण्व॒तीः । आपः॑ । अ॒र्वाक् । अ॒ति॒ष्ठ॒न् ॥
स्वर रहित मन्त्र
आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः। उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन् ॥१०॥
स्वर रहित पद पाठआ। सूर्यः। अरुहत्। शुक्रम्। अर्णः। अयुक्त। यत्। हरितः। वीतऽपृष्ठाः। उद्ना। न। नावम्। अनयन्त। धीराः। आऽशृण्वतीः। आपः। अर्वाक्। अतिष्ठन् ॥१०॥
ऋग्वेद - मण्डल » 5; सूक्त » 45; मन्त्र » 10
अष्टक » 4; अध्याय » 2; वर्ग » 27; मन्त्र » 5
अष्टक » 4; अध्याय » 2; वर्ग » 27; मन्त्र » 5
भावार्थ - जी माणसे सूर्य, जल इत्यादी विद्या जाणून नावा वगैरे चालवितात ती श्रीमंत होतात. ॥ १० ॥
इस भाष्य को एडिट करें