ऋग्वेद - मण्डल 5/ सूक्त 56/ मन्त्र 2
ऋषिः - श्यावाश्व आत्रेयः
देवता - मरुतः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - गान्धारः
यथा॑ चि॒न्मन्य॑से हृ॒दा तदिन्मे॑ जग्मुरा॒शसः॑। ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न्तान्व॑र्ध भीमसं॑दृशः ॥२॥
स्वर सहित पद पाठयथा॑ । चि॒त् । मन्य॑से । हृ॒दा । तत् । इत् । मे॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ । ये । ते॒ । नेदि॑ष्ठम् । हव॑नानि । आ॒ऽगम॑न् । तान् । व॒र्ध॒ । भी॒मऽस॑न्दृशः ॥
स्वर रहित मन्त्र
यथा चिन्मन्यसे हृदा तदिन्मे जग्मुराशसः। ये ते नेदिष्ठं हवनान्यागमन्तान्वर्ध भीमसंदृशः ॥२॥
स्वर रहित पद पाठयथा। चित्। मन्यसे। हृदा। तत्। इत्। मे। जग्मुः। आऽशसः। ये। ते। नेदिष्ठम्। हवनानि। आऽगमन्। तान्। वर्ध। भीमऽसंदृशः ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 56; मन्त्र » 2
अष्टक » 4; अध्याय » 3; वर्ग » 19; मन्त्र » 2
अष्टक » 4; अध्याय » 3; वर्ग » 19; मन्त्र » 2
भावार्थ - या मंत्रात उपमालंकार आहे. माणसांनी परस्पर उपकार करून सुखी व्हावे. ॥ २ ॥
इस भाष्य को एडिट करें