ऋग्वेद - मण्डल 6/ सूक्त 15/ मन्त्र 2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - निचृज्जगती
स्वरः - निषादः
मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषम्। स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥२॥
स्वर सहित पद पाठमि॒त्रम् । न । यम् । सु॒ऽधि॑तम् । भृग॑वः । द॒धुः । वन॒स्पतौ॑ । ईड्य॑म् । ऊ॒र्ध्वऽशो॑चिषम् । सः । त्वम् । सुऽप्री॑तः । वी॒तऽह॑व्ये । अ॒द्भु॒त॒ । प्रश॑स्तिऽभिः । म॒ह॒य॒से॒ । दि॒वेऽदि॑वे ॥
स्वर रहित मन्त्र
मित्रं न यं सुधितं भृगवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम्। स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवेदिवे ॥२॥
स्वर रहित पद पाठमित्रम्। न। यम्। सुऽधितम्। भृगवः। दधुः। वनस्पतौ। ईड्यम्। ऊर्ध्वऽशोचिषम्। सः। त्वम्। सुऽप्रीतः। वीतऽहव्ये। अद्भुत। प्रशस्तिऽभिः। महयसे। दिवेऽदिवे ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 15; मन्त्र » 2
अष्टक » 4; अध्याय » 5; वर्ग » 17; मन्त्र » 2
अष्टक » 4; अध्याय » 5; वर्ग » 17; मन्त्र » 2
भावार्थ - या मंत्रात उपमालंकार आहे. हे माणसांनो ! जसा मित्र कार्य सिद्ध करतो तसे अग्नी चांगल्याप्रकारे प्रयुक्त केल्यास कार्य सिद्ध करतो. ॥ २ ॥
इस भाष्य को एडिट करें