ऋग्वेद - मण्डल 6/ सूक्त 34/ मन्त्र 5
अस्मा॑ ए॒तन्मह्यां॑ङ्गू॒षम॑स्मा॒ इन्द्रा॑य स्तो॒त्रं म॒तिभि॑रवाचि। अस॒द्यथा॑ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो॑ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ॥५॥
स्वर सहित पद पाठअस्मै॑ । ए॒तत् । महि॑ । आ॒ङ्गू॒षम् । अ॒स्मै॒ । इन्द्रा॑य । स्तो॒त्रम् । म॒तिऽभिः॑ । अ॒वा॒चि॒ । अस॑त् । यथा॑ । म॒ह॒ति । वृ॒त्र॒ऽतूर्ये॑ । इन्द्रः॑ । वि॒श्वऽआ॑युः । अ॒वि॒ता । वृ॒धः॒ । च॒ ॥
स्वर रहित मन्त्र
अस्मा एतन्मह्यांङ्गूषमस्मा इन्द्राय स्तोत्रं मतिभिरवाचि। असद्यथा महति वृत्रतूर्य इन्द्रो विश्वायुरविता वृधश्च ॥५॥
स्वर रहित पद पाठअस्मै। एतत्। महि। आङ्गूषम्। अस्मै। इन्द्राय। स्तोत्रम्। मतिऽभिः। अवाचि। असत्। यथा। महति। वृत्रऽतूर्ये। इन्द्रः। विश्वऽआयुः। अविता। वृधः। च ॥५॥
ऋग्वेद - मण्डल » 6; सूक्त » 34; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 5
भावार्थ - जे अविद्वान असतील त्यांनी विद्वानांचे अनुकरण करून आपले वर्तन उत्तम ठेवावे. ॥ ५ ॥
इस भाष्य को एडिट करें