Loading...
ऋग्वेद मण्डल - 7 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 40/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - विश्वेदेवा: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो॑ अर्य॒मा द॑दातु। दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥२॥

    स्वर सहित पद पाठ

    मि॒त्रः । तत् । नः॒ । वरु॑णः । रोद॑सी॒ इति॑ । च॒ । द्युऽभ॑क्तम् । इन्द्रः॑ । अ॒र्य॒मा । द॒दा॒तु । दिदे॑ष्टु । दे॒वी । अदि॑तिः । रेक्णः॑ । वा॒युः । च॒ । यत् । नि॒यु॒वैते॒ इति॑ नि॒ऽयु॒वैते॑ । भगः॑ । च॒ ॥


    स्वर रहित मन्त्र

    मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु। दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च ॥२॥

    स्वर रहित पद पाठ

    मित्रः। तत्। नः। वरुणः। रोदसी इति। च। द्युऽभक्तम्। इन्द्रः। अर्यमा। ददातु। दिदेष्टु। देवी। अदितिः। रेक्णः। वायुः। च। यत्। नियुवैते इति निऽयुवैते। भगः। च ॥२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 40; मन्त्र » 2
    अष्टक » 5; अध्याय » 4; वर्ग » 7; मन्त्र » 2

    भावार्थ - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी सदैव पुरुषार्थाने सर्वांना ऐश्वर्य प्राप्त करून द्यावे. ॥ २ ॥

    इस भाष्य को एडिट करें
    Top