ऋग्वेद - मण्डल 8/ सूक्त 51/ मन्त्र 2
ऋषिः - श्रुष्टिगुः काण्वः
देवता - इन्द्र:
छन्दः - विराट्पङ्क्ति
स्वरः - पञ्चमः
पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तम् । स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृक॑: ॥
स्वर सहित पद पाठपा॒र्ष॒द्वा॒णः । प्रस्क॑ण्वम् । सम् । अ॒सा॒द॒य॒त् । शया॑नम् । जिव्रि॑म् । उद्धि॑तम् । स॒हस्रा॑णि । अ॒सि॒सा॒स॒त् । गवा॑म् । ऋषिः॑ । त्वाऽऊ॑तः । दस्य॑वे । वृकः॑ ॥
स्वर रहित मन्त्र
पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् । सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृक: ॥
स्वर रहित पद पाठपार्षद्वाणः । प्रस्कण्वम् । सम् । असादयत् । शयानम् । जिव्रिम् । उद्धितम् । सहस्राणि । असिसासत् । गवाम् । ऋषिः । त्वाऽऊतः । दस्यवे । वृकः ॥ ८.५१.२
ऋग्वेद - मण्डल » 8; सूक्त » 51; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 18; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 18; मन्त्र » 2
भावार्थ - प्रकृष्ट प्रशंसक परंतु असावधानीने वाणीचा प्रयोग करून विद्वानही कधी कधी वाणीच्या हिंसक रोगाचा शिकार होऊ शकतो. सूर्यकिरणांच्या सेवनानेही असे रोग इत्यादी नष्ट होण्याचे येथे संकेत आहेत. ॥२॥
इस भाष्य को एडिट करें