ऋग्वेद - मण्डल 8/ सूक्त 87/ मन्त्र 6
ऋषिः - कृष्णो द्युम्नीको वा वासिष्ठः प्रियमेधो वा
देवता - अश्विनौ
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये । ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तम् ॥
स्वर सहित पद पाठव॒यम् । हि । वा॒म् । हवा॑महे । वि॒प॒न्यवः॑ । विप्रा॑सः । वाज॑ऽसातये । ता । व॒ल्गू इति॑ । द॒स्रा । पु॒रु॒ऽदंस॑सा । धि॒या । अश्वि॑ना । श्रु॒ष्टी । आ । ग॒त॒म् ॥
स्वर रहित मन्त्र
वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये । ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् ॥
स्वर रहित पद पाठवयम् । हि । वाम् । हवामहे । विपन्यवः । विप्रासः । वाजऽसातये । ता । वल्गू इति । दस्रा । पुरुऽदंससा । धिया । अश्विना । श्रुष्टी । आ । गतम् ॥ ८.८७.६
ऋग्वेद - मण्डल » 8; सूक्त » 87; मन्त्र » 6
अष्टक » 6; अध्याय » 6; वर्ग » 10; मन्त्र » 6
अष्टक » 6; अध्याय » 6; वर्ग » 10; मन्त्र » 6
भावार्थ - परमेश्वराच्या विविध गुणांचे कीर्तन करणाऱ्या विद्वानांनी गृहस्थ स्त्री-पुरुषांना उपदेश द्यावा, की त्यांनी आपल्या जीवनयाज्ञेत शोभनीय बोलावे. विविध कर्मही शोभनीय करावे व विवेकशक्ती धारक बुद्धीला कधी पृथक करू नये. ॥६॥
इस भाष्य को एडिट करें