Loading...
ऋग्वेद मण्डल - 8 के सूक्त 90 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 90/ मन्त्र 2
    ऋषिः - नृमेधपुरुमेधौ देवता - इन्द्र: छन्दः - पादनिचृत्पङ्क्ति स्वरः - पञ्चमः

    त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् । तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥

    स्वर सहित पद पाठ

    त्वम् । दा॒ता । प्र॒थ॒मः । राध॑साम् । अ॒सि॒ । असि॑ । स॒त्यः । ई॒शा॒न॒ऽकृत् । तु॒वि॒ऽद्यु॒म्नस्य॑ । युज्या॑ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रस्य॑ । शव॑सः । म॒हः ॥


    स्वर रहित मन्त्र

    त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् । तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥

    स्वर रहित पद पाठ

    त्वम् । दाता । प्रथमः । राधसाम् । असि । असि । सत्यः । ईशानऽकृत् । तुविऽद्युम्नस्य । युज्या । आ । वृणीमहे । पुत्रस्य । शवसः । महः ॥ ८.९०.२

    ऋग्वेद - मण्डल » 8; सूक्त » 90; मन्त्र » 2
    अष्टक » 6; अध्याय » 6; वर्ग » 13; मन्त्र » 2

    भावार्थ - सृष्टिरचनाकार भगवानच प्रथम दाता आहे. वास्तविक स्वामी तोच आहे. त्यामुळे तो सर्वांचा दाता आहे. त्याच्याकडूनच यश देणारे ऐश्वर्य, बल इत्यादी प्राप्त करण्याची इच्छा करावी व ती प्रभूच्या गुणांच्या अनुरूप असून योग्य असावी. ॥२॥

    इस भाष्य को एडिट करें
    Top