ऋग्वेद - मण्डल 9/ सूक्त 79/ मन्त्र 5
ए॒वा त॑ इन्दो सु॒भ्वं॑ सु॒पेश॑सं॒ रसं॑ तुञ्जन्ति प्रथ॒मा अ॑भि॒श्रिय॑: । निदं॑निदं पवमान॒ नि ता॑रिष आ॒विस्ते॒ शुष्मो॑ भवतु प्रि॒यो मद॑: ॥
स्वर सहित पद पाठए॒व । ते॒ । इ॒न्दो॒ इति॑ । सु॒ऽभ्व॑म् । सु॒ऽपेश॑सम् । रस॑म् । तु॒ञ्ज॒न्ति॒ । प्र॒थ॒माः । अ॒भि॒ऽश्रियः॑ । निद॑म्ऽनिदम् । प॒व॒मा॒न॒ । नि । ता॒रि॒षः॒ । आ॒विः । ते॒ । शुष्मः॑ । भ॒व॒तु॒ । प्रि॒यः । मदः॑ ॥
स्वर रहित मन्त्र
एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रिय: । निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मद: ॥
स्वर रहित पद पाठएव । ते । इन्दो इति । सुऽभ्वम् । सुऽपेशसम् । रसम् । तुञ्जन्ति । प्रथमाः । अभिऽश्रियः । निदम्ऽनिदम् । पवमान । नि । तारिषः । आविः । ते । शुष्मः । भवतु । प्रियः । मदः ॥ ९.७९.५
ऋग्वेद - मण्डल » 9; सूक्त » 79; मन्त्र » 5
अष्टक » 7; अध्याय » 3; वर्ग » 4; मन्त्र » 5
अष्टक » 7; अध्याय » 3; वर्ग » 4; मन्त्र » 5
भावार्थ - परमेश्वराचा आनंद योग्यांसाठी सदैव आल्हादक असतो व दुराचारी दुष्टांसाठी परमेश्वराचे बल नाशाचा हेतू आहे. त्यासाठी परमात्म परायण पुरुषांनी सदैव परमेश्वराच्या नियमांचे पालन करण्यात तत्पर असावे. ॥५॥
इस भाष्य को एडिट करें