ऋग्वेद - मण्डल 9/ सूक्त 92/ मन्त्र 1
परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये॑ हिया॒नः । आप॒च्छ्लोक॑मिन्द्रि॒यं पू॒यमा॑न॒: प्रति॑ दे॒वाँ अ॑जुषत॒ प्रयो॑भिः ॥
स्वर सहित पद पाठपरि॑ । सु॒वा॒नः । हरिः॑ । अं॒शुः । प॒वित्रे॑ । रथः॑ । न । स॒र्जि॒ । स॒नये॑ । हि॒या॒नः । आप॒त् । श्ल्लोक॑म् । इ॒न्द्रि॒यम् । पू॒यमा॑नः । प्रति॑ । दे॒वान् । अ॒जु॒ष॒त॒ । प्रयः॑ऽभिः ॥
स्वर रहित मन्त्र
परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः । आपच्छ्लोकमिन्द्रियं पूयमान: प्रति देवाँ अजुषत प्रयोभिः ॥
स्वर रहित पद पाठपरि । सुवानः । हरिः । अंशुः । पवित्रे । रथः । न । सर्जि । सनये । हियानः । आपत् । श्ल्लोकम् । इन्द्रियम् । पूयमानः । प्रति । देवान् । अजुषत । प्रयःऽभिः ॥ ९.९२.१
ऋग्वेद - मण्डल » 9; सूक्त » 92; मन्त्र » 1
अष्टक » 7; अध्याय » 4; वर्ग » 2; मन्त्र » 1
अष्टक » 7; अध्याय » 4; वर्ग » 2; मन्त्र » 1
भावार्थ - जे लोक शुद्ध अंत:करणाने परमेश्वराची उपासना करतात, परमेश्वर त्यांच्या अंत:करणात पवित्र ज्ञान प्रादुर्भूत करतो. ॥१॥
इस भाष्य को एडिट करें