Loading...
ऋग्वेद मण्डल - 9 के सूक्त 93 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 93/ मन्त्र 2
    ऋषिः - नोधाः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    सं मा॒तृभि॒र्न शिशु॑र्वावशा॒नो वृषा॑ दधन्वे पुरु॒वारो॑ अ॒द्भिः । मर्यो॒ न योषा॑म॒भि नि॑ष्कृ॒तं यन्त्सं ग॑च्छते क॒लश॑ उ॒स्रिया॑भिः ॥

    स्वर सहित पद पाठ

    सम् । मा॒तृऽभिः॑ । न । शिशुः॑ । वा॒व॒शा॒नः । वृषा॑ । द॒ध॒न्वे॒ । पु॒रु॒ऽवारः॑ । अ॒त्ऽभिः । मर्यः॑ । न । योषा॑म् । अ॒भि । निः॒ऽकृ॒तम् । यन् । सम् । ग॒च्छ॒ते॒ । क॒लशे॑ । उ॒स्रिया॑भिः ॥


    स्वर रहित मन्त्र

    सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः । मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥

    स्वर रहित पद पाठ

    सम् । मातृऽभिः । न । शिशुः । वावशानः । वृषा । दधन्वे । पुरुऽवारः । अत्ऽभिः । मर्यः । न । योषाम् । अभि । निःऽकृतम् । यन् । सम् । गच्छते । कलशे । उस्रियाभिः ॥ ९.९३.२

    ऋग्वेद - मण्डल » 9; सूक्त » 93; मन्त्र » 2
    अष्टक » 7; अध्याय » 4; वर्ग » 3; मन्त्र » 2

    भावार्थ - ज्या प्रकारे ऐश्वर्य प्रदान करणाऱ्या प्रकृतिरूपी विभूतीला उद्योगी पुरुष धारण करतो त्याच प्रकारे प्रकृतीच्या नाना शक्तीरूपी विभूतीला कर्मयोगी पुरुष धारण करतो. ॥२॥

    इस भाष्य को एडिट करें
    Top