ऋग्वेद - मण्डल 7/ सूक्त 78/ मन्त्र 5
प्रति॑ त्वा॒द्य सु॒मन॑सो बुधन्ता॒स्माका॑सो म॒घवा॑नो व॒यं च॑ । ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
स्वर सहित पद पाठप्रति॑ । त्वा॒ । अ॒द्य । सु॒ऽमन॑सः । बु॒ध॒न्त॒ । अ॒स्माका॑सः । म॒घऽवा॑नः । व॒यम् । च॒ । ति॒ल्वि॒ला॒यध्व॑म् । उ॒ष॒सः॒ । वि॒ऽभा॒तीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च । तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभि: सदा नः ॥
स्वर रहित पद पाठप्रति । त्वा । अद्य । सुऽमनसः । बुधन्त । अस्माकासः । मघऽवानः । वयम् । च । तिल्विलायध्वम् । उषसः । विऽभातीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.७८.५
ऋग्वेद - मण्डल » 7; सूक्त » 78; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 25; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 25; मन्त्र » 5
विषयः - अथैश्वर्यसम्पन्नः परमात्मा प्रार्थ्यते।
पदार्थः -
हे परमात्मन् ! (त्वा प्रति) भवन्तं प्रति (अद्य) अस्मिन्वर्त्तमाने दिने (सुमनसः) सुचेतसो विज्ञानिनः (अस्माकासः) अस्मदीया ऋत्विगादयश्च (मघवानः) ऐश्वर्यसम्पन्नं भवन्तं (बुधन्त) बोधयन्ति (च) च पुनः (वयम्) वयं भवन्महत्त्वं बुध्यामहे, (यूयम्) हे परमात्मन् ! त्वम् (तिल्विलायध्वम्) अस्मासु मिथः प्रेमोत्पादको भव, यतो भवान् (उषसः) प्रकाशस्वरूपज्ञानेन (विभातीः) शश्वत्प्रकाशते (यूयम्) भवन्तः (स्वस्तिभिः) स्वस्तिमयीभिर्वेदवाग्भिः (नः) अस्मान् (सदा) शश्वत् (पात) पुनन्तु ॥५॥ इत्यष्टासप्ततितमं सूक्तं पञ्चविंशो वर्गश्च समाप्तः ॥