ऋग्वेद - मण्डल 8/ सूक्त 12/ मन्त्र 3
येन॒ सिन्धुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दय॑: । पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥
स्वर सहित पद पाठयेन॑ । सिन्धु॑म् । म॒हीः । अ॒पः । रथा॑न्ऽइव । प्र॒ऽचो॒दयः॑ । पन्था॑म् । ऋ॒तस्य॑ । यात॑वे । तम् । ई॒म॒हे॒ ॥
स्वर रहित मन्त्र
येन सिन्धुं महीरपो रथाँ इव प्रचोदय: । पन्थामृतस्य यातवे तमीमहे ॥
स्वर रहित पद पाठयेन । सिन्धुम् । महीः । अपः । रथान्ऽइव । प्रऽचोदयः । पन्थाम् । ऋतस्य । यातवे । तम् । ईमहे ॥ ८.१२.३
ऋग्वेद - मण्डल » 8; सूक्त » 12; मन्त्र » 3
अष्टक » 6; अध्याय » 1; वर्ग » 1; मन्त्र » 3
अष्टक » 6; अध्याय » 1; वर्ग » 1; मन्त्र » 3
विषयः - अथ परमात्मा सत्यमार्गं लब्धुं प्रार्थ्यते।
पदार्थः -
(येन) येन पराक्रमेण (महीः, अपः) महान्ति जलानि (रथान्, इव) इच्छागामिरथानिव (सिन्धुम्) समुद्रं प्रति (प्रचोदयः) गमयसि (तम्) तं पराक्रमम् (ऋतस्य, पन्थां) सत्यस्य पन्थानम् (यातवे) यातुम् (ईमहे) प्रार्थयामहे ॥३॥