Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 19/ मन्त्र 37
    ऋषिः - सोभरिः काण्वः देवता - त्रसदस्योर्दानस्तुतिः छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    उ॒त मे॑ प्र॒यियो॑र्व॒यियो॑: सु॒वास्त्वा॒ अधि॒ तुग्व॑नि । ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पति॑: ॥

    स्वर सहित पद पाठ

    उ॒त । मे॒ । प्र॒यियोः॑ । व॒यियोः॑ । सु॒ऽवास्त्वाः॑ । अधि॑ । तुग्व॑नि । ति॒सॄ॒णाम् । स॒प्त॒ती॒नाम् । श्या॒वः । प्र॒ऽने॒ता । भु॒व॒त् । वसुः॑ । दिया॑नाम् । पतिः॑ ॥


    स्वर रहित मन्त्र

    उत मे प्रयियोर्वयियो: सुवास्त्वा अधि तुग्वनि । तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पति: ॥

    स्वर रहित पद पाठ

    उत । मे । प्रयियोः । वयियोः । सुऽवास्त्वाः । अधि । तुग्वनि । तिसॄणाम् । सप्ततीनाम् । श्यावः । प्रऽनेता । भुवत् । वसुः । दियानाम् । पतिः ॥ ८.१९.३७

    ऋग्वेद - मण्डल » 8; सूक्त » 19; मन्त्र » 37
    अष्टक » 6; अध्याय » 1; वर्ग » 35; मन्त्र » 7

    पदार्थः -
    (उत) अथ (मे) मह्यम् (प्रयियोः) प्रयाणशीलस्य (वयियोः) वानक्रियानिष्पन्नस्य (सुवास्त्वाः) सुष्ठु गृहस्येव शरीरस्य (अधितुग्वनि) तीर्थ इव मध्ये (श्यावः) प्रकृत्याश्रितो भूत्वा (तिसॄणाम्) त्रिंसख्याकानाम् (सप्ततीनाम्) सप्ततिसंख्याकानाम् दशोत्तरद्विशत्यानाडीनां (प्रणेता) निर्माता (दियानाम्) नश्वरपदार्थानाम् (पतिः) पालकः (वसुः) अन्तःकरणवासी (भुवत्) भूयात् ॥३७॥ इति एकोनविंशतितमं सूक्तं पञ्चत्रिंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top